
अथ आवाहन मंत्र | श्री राम चरितमानस परायण मंत्र
॥ श्रीहरिः ॥
पारायण-विधि
श्री रामचरितमानस का विधिपूर्वक पाठ करनेवाले महानुभावोंको पाठारम्भ के पूर्व श्रीतुलसीदासजी, श्रीवाल्मीकिजी, श्रीशिवजी तथा श्रीहनुमान्जीका आवाहन, पूजन करने के पश्चात् तीनों भाइयों सहित श्रीसीताराम जी का आवाहन, षोडशोपचार पूजन और ध्यान करना चाहिये। तदनन्तर पाठका आरम्भ करना चाहिये। सबके आवाहन, पूजन और ध्यानके मन्त्र क्रमशः नीचे लिखे जाते हैं-
अथ आवाहनमन्त्रः
तुलसीक नमस्तुभ्यमिहागच्छ शुचिव्रत ।
नैर्ऋत्य उपविश्येदं पूजनं प्रतिगृह्यताम् ॥१॥
ॐ तुलसीदासाय नमः
श्रीवाल्मीक नमस्तुभ्यमिहागच्छ शुभप्रद ।
उत्तरपूर्वयोर्मध्ये तिष्ठ गृह्णीष्व मेऽर्चनम् ॥२॥
ॐ वाल्मीकाय नमः ।
गौरीपते नमस्तुभ्यमिहागच्छ महेश्वर ।
पूर्वदक्षिणयोर्मध्ये तिष्ठ पूजां गृहाण मे॥ ३ ॥
ॐ गौरीपतये नमः ।
श्रीलक्ष्मण नमस्तुभ्यमिहागच्छ सहप्रियः ।
याम्यभागे समातिष्ठ पूजनं संगृहाण मे॥ ४॥
ॐ श्रीसपत्नीकाय लक्ष्मणाय नमः ।
श्रीशत्रुघ्न नमस्तुभ्यमिहागच्छ सहप्रियः ।
पीठस्य पश्चिमे भागे पूजनं स्वीकुरुष्व मे ॥ ५ ॥
ॐ श्रीसपत्नीकाय शत्रुघ्नाय नमः ।
श्रीभरत नमस्तुभ्यमिहागच्छसहप्रियः ।
पीठकस्योत्तरे भागे तिष्ठ पूजां गृहाण मे ॥ ६ ॥
ॐ श्रीसपत्नीकाय भरताय नमः ।
श्रीहनुमन्नमस्तुभ्यमिहागच्छ कृपानिधे ।
पूर्वभागे समातिष्ठ पूजनं स्वीकुरु प्रभो ॥ ७ ॥
ॐ हनुमते नमः ।
अथ प्रधानपूजा च कर्तव्या विधिपूर्वकम् ।
पुष्पाञ्जलिं गृहीत्वा तु ध्यानं कुर्यात्परस्य च ॥ ८ ॥
रक्ताम्भोजदलाभिरामनयनं पीताम्बरालङ्कृतं
श्यामाङ्गं द्विभुजं प्रसन्नवदनं श्रीसीतया शोभितम् ।
कारुण्यामृतसागरं प्रियगणैर्भात्रादिभिर्भावितं
वन्दे विष्णुशिवादिसेव्यमनिशं भक्तेष्टसिद्धिप्रदम् ॥ ९ ॥
आगच्छ जानकीनाथ जानक्या सह राघव ।
गृहाण मम पूजां च वायुपुत्रादिभिर्युतः ॥ १० ॥
इत्यावाहन
सुवर्णरचितं राम दिव्यास्तरणशोभितम् ।
आसनं हि मया दत्तं गृहाण मणिचित्रितम् ॥ ११ ॥
इति षोडशोपचारैः पूजयेत्
ॐ अस्य श्रीमन्मानसरामायण श्रीरामचरितस्य
श्रीशिवकाकभुशुण्डि याज्ञवल्क्य गोस्वामि तुलसीदासा
ऋषयः श्रीसीतारामो देवता श्रीरामनाम बीजं भवरोगहरी भक्तिः शक्तिः मम नियन्त्रिताशेषविघ्नतया श्रीसीतारामप्रीतिपूर्वक सकल मनोरथसिद्धयर्थं पाठे विनियोगः।
राम भजन
- जान से भी प्यारा राम
- आओ राम जी संग सिया को लखन को भी लाओ राम जी
- बेर तोड़ तोड़ झोली विच पावे भिलनी कंडा चुबे
- आँखें बंद करूँ या खोलू मुझ को दर्शन दे दो राम
भक्त पर भगवान की कृपा बनाए रखने के लिए कौन से उपाय करना चाहिए?